|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.261. अध्यायः 261
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पृथिव्यादिभूदगुणप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-261-0x(6270)(75765)
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ॥ 12-261-1(75766)
दीप्तानलनिभः प्राह भगवान्धूमवत्सलः।
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्॥ 12-261-2(75767)
भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता।
गन्धो भारश्च शक्तिश्च संघातः स्थापना धृतिः॥ 12-261-3(75768)
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता।
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा॥ 12-261-4(75769)
अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम्।
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता॥ 12-261-5(75770)
वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता।
बलं शैध्यं च मोक्षं च कर्म चेष्टात्मता भवः॥ 12-261-6(75771)
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च।
अनाश्रयमनालम्बमव्यक्तमविकारिता॥ 12-261-7(75772)
अप्रतीघातिता चैव श्रोतत्वं विवराणि च।
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः॥ 12-261-8(75773)
फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा।
सदसच्चाशुता चैव मनसो नव वै गुणाः॥ 12-261-9(75774)
इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः॥ 12-261-10(75775)
युधिष्ठिर उवाच। 12-261-11x(6271)
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः।
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह॥ 12-261-11(75776)
भीष्म उवाच। 12-261-12x(6272)
आहुः षष्टिं भूतगुणान्वै
भूतविषक्तान्प्रकृतिविसृष्टान्।
नित्यविषक्तांश्चाक्षरसृष्टा
न्पुत्र न नित्यं तदिह वदन्ति॥ 12-261-12(75777)
तत्पुत्रचिन्ताकलिलं तदुक्त
मनागतं वै तव संप्रतीह।
भूतार्थवत्त्वं तदवाप्य सर्वं
भूतप्रभावाद्भव शान्तबुद्धिः॥ ॥ 12-261-13(75778)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वँणि एकषष्ट्यधिकद्विशततमोऽध्यायः॥ 261॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-261-2 धर्मवत्सल इति ड. पाठः॥ 12-261-4 जिह्वा रसनेन्द्रियम्। विस्यन्दनं प्रस्रवणम्। भौमानां तण्डुलादीनां श्रपणं पाचनम्। विष्यन्दनं चैव भूमावास्रवणं तथेति थ. पाठः। विष्यन्दनं भूमेर्देहेष्वाश्रयणं तथेति ध. पाठः॥ 12-261-5 ज्योतिर्ज्वलनकर्म। लघुः शीघ्रगामित्वम्। दशमश्चोर्ध्वभागितेति थ.ध. पाठः॥ 12-261-6 अनियमस्पर्शोऽनुष्णाशीतस्पर्शः। वादस्थानं वागिन्द्रियगोलकानि। स्वतन्त्रता गमनादौ। मोक्षो मूत्रादेः। कर्म उत्क्षेपणादि। चेष्टा श्वासप्रश्वासादिः। भवो जन्ममरणे। वायोस्तिर्यग्गतिः स्पर्शे इति ड. थ. पाठः। चलं शैघ्र्यं च गमनं चेष्टा कर्मात्मता तथा इति ड. थ. पाठः॥ 12-261-7 अनाश्रयमाश्रयत्वाभावः। अनालम्बनमाश्रयान्तरशून्यत्वम्। अव्यक्तं रूपस्पर्शशून्यत्वात्। अविकारिता द्रव्यान्तरानारम्भकत्वम्॥ 12-261-8 पञ्चभूतात्मभाविताः पञ्चानां भूतानामात्मा प्रातिस्विकं स्वरूपं तत्र लक्षिताः॥ 12-261-9 व्यक्तिः स्मरणम्। विसर्गो विपरीतः सर्गो भ्रान्तिः। कल्पना मनोरथवृत्तिः। क्षमा प्रसिद्ध। सत् वैराग्यादि। असत् रागद्वेषादि। आशुता अस्तिरत्वम्॥ 12-261-10 इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशो निद्रारूपा वृत्तिरित्यर्थः। व्यवसाय उत्साहः। समाधिता चित्तस्थैर्यं निरोध इत्यर्थः। प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|